रचनाएं
वर्धापनाष्टकम्
पुण्याभा प्रणवांकशोभियतिः शान्तः क्षमाशीलधृक्
तेजोयुक्तसुवर्णकान्तिरुचिरो हर्षाभिसिक्ताननः।
आज्ञां श्री गुरुसत्तमस्य शिरसा धृत्वा विनीतो भृशं
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
जातो यो फलसूंडमंडिततले श्रद्धाकुले कोचरे
तातो यस्य सवाईचंद विदितो माता च छग्नी मही।
बाल्ये यो विलसत्प्रभा सुललितो मेधागुणैः पूरितः
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
साध्वीनां निकटे स्वधर्मनियमान् बालोऽपि धृत्वा स्थितः
दृष्ट्वा तस्य विलक्षणं सुचरितं साध्वी प्रहर्षाकुला।
भावी तीर्थपतिर्विभाति जगति ज्ञात्वाथ संघस्य श्रीः
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
वैराग्योदित भावमंडितमतिः श्रीमन्महाप्रज्ञतः
त्यक्त्वा मोहमयीं विलासिरचनां संघाय दत्तात्मकः।
बाल्ये संयममार्गसत्यगमने धृत्वा सुसंकल्पनां
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
तस्मिन् सुप्रथिते जसोलनगरे फाल्गुन्यमासे वरे
दीक्षां प्राप्य गुरोः करात् स मुनिवर्यो वीरनाम्ना धृतः।
सत्यज्ञानतपोमये सुचरिते मार्गे सदैवास्थितः
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
ज्ञाने यो विपुलो सुकोविदमुनिः प्राप्नोति विद्याश्रियं
वाणी यस्य सुकोमला श्रुतिसुखा कंठे धृताः सूक्तयः।
ग्रंथानां पठने सुतीव्रमतिमान श्रेष्ठः श्रुताराधकः
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
सेवायां गुरुपादपद्मयुगले नित्यं रतः श्रद्धया
आचार्यप्रवरात् महाश्रमणतो मुख्यं पदं प्राप्तवान्।
नेपाले ह्यसमे तथा शुभदिने घोषाः कृताः यस्य वै
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
दिव्ये भैक्षवशासने सुखकरे श्रीराजधान्यां वरे
संघेशान्मुदितान्महाश्रमणतः संघस्य मध्ये स्वयम्।
प्रादात् स्वं पदमुत्तमं प्रमुदितः हस्ते मुनेर्धीमतः
संघे मौलिमणिः विभाति स युवाचार्यो महावीरराट्॥
अतिरिक्तं
यस्याध्यापनतस्त्वहं गुणमयं प्राप्नोमि सत्प्रेरणां
ध्यात्वा श्रीचरणाम्बुजं सविनयं भक्त्या जयेशो मुनिः ।
आसीनं युवराजपट्टशिखरे संवीक्ष्य हृष्याम्यहं
हर्षोत्कर्षभरैः प्रमोदितमनो वंदे महावीरकम् ॥ ९ ॥
छन्द - शार्दूलविक्रीडित